Thursday, September 01, 2011

गणपतीची स्तोत्रे

आज गणेशचतुर्थी आहे. या प्रसंगी श्रीगणरायाला साष्टांग प्रणिपात.
हा उत्सव सर्वांना फलदायक ठरो अशा शुभेच्छा. या दिवसानिमित्य गणेशाची दोन स्तोत्रे खाली देत आहे.

१ संकट नाशन गणेश स्तोत्र (नारद पुराण, नारद विरचित)

नारद उवाच

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं
भक्तावासं स्मरेत् नित्यं आयु: कामार्थ सिद्धये ।।१।।

प्रथमं वक्रतुण्डं च एकदंतं द्वितीयकं
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं ।।२।।

लंबोदरं पञ्चमं च षष्ठमं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णम् तथाष्टकं ।।३।।


नवमं भालचन्द्रं च दशमं तु विनायकं

एकादशं गणपतिम् द्वादशं तु गजाननं ।।४।।


द्वादशैतानि नामानि त्रिसंध्यं य: पठेत् नर:
न च विघ्नभयं तस्य सर्व सिद्धिकरं भवेत् ।।५।।

विद्यार्थी लभते विद्या धनार्थी लभते धनं
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।६।।

जपेत् गणपति स्तोत्रं षड्भि: मासै: फ़लं लभेत्
संवत्सरेण सिद्धिम् च लभते नात्र संशय: ।।७।।


अष्टेभ्यो ब्राह्मणेभ्यश्र्च लिखित्वा य: समर्पयेत
तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादत: ।।८।।

इति श्री नारद पुराणे नारद विरचितं
“संकटनाशनं” नाम श्रीगणेश स्तोत्रं संपूर्णम्

शुभं भवतु शुभं भवतु शुभं भवतु

ॐ श्री गजानन प्रसन्न 

ॐ गं गणपतये नम:
----------------------------------------------------------------------

२ श्री गणेश द्वादश नाम स्तोत्र (मुद्गल पुराण )


ॐ श्री गणेशाय नम:

शुक्लाम्बर धरं देवं शशिवर्णम् चतुर्भुजं
प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशांतये ।।१।।
अभिप्सितार्थ सिद्ध्यर्थम् पूजितो य: सुरासुरै:
सर्व विघ्नहर: तस्मै गणाधिपतये नम: ।।२।।

गणानां अधिप: चण्डो गजवक्त्र: त्रिलोचन:
प्रसन्नो भव मे नित्यं वरदात: विनायक: ।।३।।
सुमुख: एकदंतश्च कपिलो गजकर्णक:
लंबोदरश्च  विकट: विघ्ननाशो विनायक: ।।४।।
धूम्रकेतु: गणाध्यक्ष: भालचन्द्र: गजानन:

द्वादश एतानि नामानि गणाध्यक्षश्च य: पठेत् ।।५।।
विद्यार्थी लभते विद्या धनार्थी लभते धनं
इष्टकामं तु कामार्थी धर्मार्थी मोक्षं अक्षयं ।।६।।
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटे चैव विघ्न: तस्य न जायते ।।७।।

इति श्री मुद्गल पुराणोक्तं श्रीगणेश द्वादश नाम स्तोत्रं संपूर्णम्

शुभं भवतु शुभं भवतु शुभं भवतु


















No comments: